वाचस्पत्यम्
शङ्खकार || पु० शङ्खं तद्विकारं वलयाकारं पदार्थं करोति कृ—अण् । वर्णसङ्करजातिभेदे (र्शाखारी) । स तु शूद्रागर्भे विश्वकर्मतो जातः व्रह्मवै० ।
शब्दकल्पद्रुमः
शङ्खकारः || पुं, (शङ्खं करोतीति । शङ्ख + कृ + अण् ।)
वर्णसङ्करजातिविशेषः । शाँखारि इति भाषा । स तु शूद्रागर्भे विश्वकर्म्मौरसाज्जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ तत्पर्य्यायः । शाङ्खिकः २ काम्बजकः ३ । इति शब्दरत्नावली ॥ शाम्ब- विकः ४ । इति जटाधरः ॥