वाचस्पत्यम्
शङ्खचूर्ण || न० ६ त० । शङ्खजाते चूर्णे । “शङ्खचूर्णं कटु क्षारमुष्णं कृमिहरं परम्” राजव० ।
शब्दकल्पद्रुमः
शङ्खचूर्णं || क्ली (शङ्खस्य चूर्णम् ।)
शङ्खजात- चूर्णम् । शाँखेर चूण इति भाषा । अस्य गुणाः । “शङ्खचूर्णं कटु क्षारमुष्णं क्रिमिहरं परम् ॥” इति राजवल्लभः ॥