वाचस्पत्यम्
शङ्खद्रावक || पु० आर्षधविशेषे । तत्पाकादि यथा “अर्क- स्नुही तथा चिङ्क्षा तिलारग्बधचित्रकम् । अपामार्ग भस्मसमं वस्त्रपूतं जलं हरेत् । मृद्वग्निना पचेद्त्तत्तु याश्च- ल्लवणताङ्गतम् । लवणेन समौ ग्राह्यौ द्वौ क्षारौ टङ्गणं तथा । समुद्रफेनगोदन्तकाशीशं सोरका तथा । द्विगुणं पञ्चलवणं मातुलुङ्गरसेन च । काचकूप्यान्तु सप्ताहं वासयेदम्लयोगतः । शङ्खचूर्णपलं दत्त्वा वारुणी यन्त्रमुद्धरेत् । सर्वधातून् हरेच्छीध्रं वराटीशङ्खका- दिकान् । उदरादिकरोगाणां सद्यो हि नाशकः परः” भैषज्यर० “योगिनीभैरवाभ्याञ्च बलिमादौ प्रदापयेत् । पश्चाद् यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी । रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः । गुह्याद् नुह्यतमं गुह्यमिदानीं कथ्यते मया । शङ्खचूर्णं यव- क्षारं सर्जिकाक्षारटङ्गणम् । समञ्च पञ्चलवणं स्फ- टिकारी नृशादरः । काचकूप्यां तत्र क्षिप्वा वारुणी यन्त्रमुद्धरेत् । यामार्द्धं द्रावयत्येष शङ्खशुक्तिवरा- टकान् । अर्शांसि नाशयेत् षट् च मूत्रकृच्छ्राश्मरीं तथा । उदराष्टविधं हन्ति गुल्मप्लीहोदराणि च । अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम् । भुक्त- शेषे च भोक्तव्यो माषमात्रोरसोत्तमः । क्षणमात्रा- द्भवेत् भस्म पुनर्भोजनमिच्छति । प्रत्यहं भोजनान्ते च संसेघ्योऽयं रसोत्तमः । न रुजायां भयं क्वापि सत्यं सत्यं वदाम्यहम् । न देयं यस्य कस्यापि सदा गोप्यञ्च कारयेत् । रसः शङ्खद्रवो बास वैद्यानामुपकारकः” ।
शब्दकल्पद्रुमः
शङ्खद्रावकः || पुं, (शङ्खं द्रावयतीति । द्रु + णिच् + ण्वुल् ।)
औषधविशेषः । यथा, —
“अर्कस्नुही तथा चिञ्चा तिलारग्वधचित्रकम् । अपामार्गभस्मसमं वस्त्रपूतं जलं हरेत् ॥ मृद्वग्निना पचेत्तत्तु यावल्लवणतां गतम् । लवणेन समौ ग्राह्यौ द्बौ क्षारौ टङ्गणं तथा ॥ समुद्रफेनगोदन्ताकाशीशं सोरका तथा । द्बिगुणं पञ्चलवणं मातुलुङ्गरसेन च ॥ काचकुप्यान्तु सप्ताहं वासयेदम्लयोगतः । शङ्खचूर्णपलं दत्त्वा वारुणीयन्त्रमुद्धरेत् ॥ सर्व्वधातून् हरेच्छीघ्रं वराटीशङ्खकादिकान् । उदरादिसर्व्वरोगाणां सद्यो हि नाशकः परः ॥” इति शङ्खद्रावकः ॥ * ॥
अपि च । “योगिनीभैरवाभ्याञ्च बलिमादौ प्रदापयेत् । पश्चाद्यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी ॥ रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः । गुह्याद्गुह्यतमं गुह्यमिदानीं कथ्यते मया ॥ शङ्खचूर्णं यवक्षारं सर्ज्जिकाक्षारटङ्गणम् । समञ्च पञ्चलवणं स्फटिकारी नृशादरः ॥ काचकुप्यां ततः क्षिप्त्वा वारुणीयन्त्रमुद्धरेत् । यामार्द्धं द्रावयत्येष शङ्खशुक्तिवराटकान् ॥ अर्शांसि नाशयेत् षट् च मूत्रकृच्छ्राश्मरीं तथा । उदराष्टविधं हन्ति गुल्मप्लीहोदराणि च ॥ अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम् । भुक्तशेषे च भोक्तव्यो माषमात्रो रसोत्तमः ॥ क्षणमात्राद्भवेद्भस्म पुनर्भोजनमिच्छति । प्रत्यहं भोजनान्ते च संसेव्योऽयं रसोत्तमः ॥ न रुजायां भयं क्वापि सत्यं सत्यं वदाम्यहम् । न देयं यस्य कस्यापि सदा गोप्यञ्च कारयेत् । रसः शङ्खद्रवो नाम वैद्यानामुपकारकः ॥” शङ्खद्रावको रसः । इति भैषज्यरत्नावली ॥