वाचस्पत्यम्
शङ्खद्राविन् || पु० शङ्खं द्रावयति द्रु—णिच्—णिनि । अम्ल- वेतसे राजनि० ।
शब्दकल्पद्रुमः
शङ्खद्रावी || [न्] पुं, (शङ्खं द्रावयतीति । द्रु + णिच् + णिनिः ।) अम्लवेतसः । इति राजनिर्घण्टः ॥