वाचस्पत्यम्
शङ्खिन् || पु० शङ्ख + अस्त्यर्थे इनि । १ विष्णौ, २ समुद्रे च मेदि० ।
शब्दकल्पद्रुमः
शङ्खी || [न्] पुं, (शङ्खोऽस्यास्तीति । शङ्ख + इनिः ।)
विष्णुः । समुद्रः । इति मेदिनी ॥ शाङ्खिकः । शङ्खविशिष्टे, त्रि । इति शब्दरत्नावली ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । ९ । १२ । “शङ्खिनं चक्रिणं विष्णुं खड्गिनं गदिनं विभुम् ॥” शङ्खनिधिविशिष्टे च त्रि । यथा, मार्कण्डेये । ६८ । ४५ । “स्वपोषणपरः शङ्खी नरो भवति सर्व्वदा ॥”)