वाचस्पत्यम्
शट(ठ) || श्लाघायां चु० आ० सक० सेट् । शाट(ठ)यत अशी- शट(ठ)त ।
वाचस्पत्यम्
शट || पु० शटति रुजति दन्तं शट—अच् । १ अम्ले सि० कौ० । २ सिंहकेसरे ३ जटायाञ्च स्त्री अमरः टाप् ।
वाचस्पत्यम्
शट || शादे अक० रोगजनने गतौ भेदे च सक० पर० भ्वा० शटति । अशाटीत् अशटीत् ।
शब्दकल्पद्रुमः
शट || क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।)
क ङ, शाटयते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शटः || त्रि अम्लः । शटधातोरच्प्रत्ययेन निष्पन्न- मेतत् । इति सिद्धान्तकौमुदी ॥
शब्दकल्पद्रुमः
शट || सादे । शीर्णौ । गतौ । रुजि । इति कवि- कल्पद्रुमः ॥ (भ्वा०-पर०-अक०-गतौ सक०- सेट् ।)
सादोऽवसादः । शीर्णिर्भेदः । शटति लोकः अवसीदति । विशृणाति । गच्छति । रुजति वा इत्यर्थः । इति दुर्गादासः ॥