संस्कृत-शब्दकोशः

शड शणघण्टिका

शण

वाचस्पत्यम्

शण ||‍ दाने भ्वा० पर० सक० सेट् । शणति अशाणीत् अशणीत् शशाणे शेणतुः ।


वाचस्पत्यम्

शण ||‍ पु० शण—अच् । स्वनामख्याते क्षुपभेदे हेमच० ।


शब्दकल्पद्रुमः

शणं || क्ली (शण + अच् ।)
क्षुपविशेषः । तत्- पर्य्यायः । भङ्गा २ मातुलानी ३ । इति हेम- चन्द्रः ॥ (यथा, महाभारते । १ । १४५ । ११ । “शणं तैलं घृतञ्चैव जतु दारूणि चैव हि । तस्मिन् वेश्मनि सर्व्वाणि निःक्षिपेथाः सम- न्ततः ॥”)


शब्दकल्पद्रुमः

शणः || पुं, (शण + पचाद्यच् ।)
स्वनामख्यातक्षुपः । तत्पर्य्यायः । माल्यपुष्पः २ वमनः ३ कटु- तिक्तकः ४ निशावनः ५ दीर्घशाखः ६ त्वक् सारः ७ दीर्घपल्लवः ८ । अस्य गुणाः । अम्लत्वम् । कषायत्वम् । मलगर्भास्रपातनत्वम् । वातकारित्वम् । पित्तकफतीव्राङ्गमर्द्दनाशित्वञ्च । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

शण || म दाने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
म, शणयति । इति दुर्गा- दासः ॥



Correction: