वाचस्पत्यम्
शण्ड is an alternate of षण्ड. ष(श)ण्ड || पु० सन—ड डस्य नेत्त्वम् पृषो० षत्वं शत्वं वा । १ वृषे अमरः २ नपुंसके जटा० । ३ पद्मादिसमूहे पु० न० अमरः ।
वाचस्पत्यम्
शण्ड || न० शडि—अच् । १ पद्मादिसमूहे शब्दर० । २ नपुंसके ३ वृषे च द्विरूपको० ।
शब्दकल्पद्रुमः
शण्डं || क्ली पद्मादिसमूहः । इति शब्दरत्ना- वली ॥
शब्दकल्पद्रुमः
शण्डः || पुं, नपुंसकम् । गोपतिः । इति भरतद्विरूप- कोषः ॥