वाचस्पत्यम्
शतकुम्भ || पु० शतं कुम्भायत्र । स्वर्णस्वनिपर्वतभेदे भरतः ।
शब्दकल्पद्रुमः
शतकुम्भः || पुं, पर्व्वतविशेषः । इति शातकुम्भ- शब्दटीकायां भरतः ॥ (स्त्री, नदीतीर्थविशेषः । यथा, महाभारते । ३ । ८४ । १० । “सुगन्धां शतकुम्भाञ्च पञ्चयक्षाञ्च भारत । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥”)