संस्कृत-शब्दकोशः

शतकोटि शतखण्ड

शतक्रतु

वाचस्पत्यम्

शतक्रतु ||‍ पु० शतं क्रतवोऽस्य । इन्द्रे अमरः ।


शब्दकल्पद्रुमः

शतक्रतुः || पुं, (शतं क्रतवो यस्य ।)
इन्द्रः । इति धनञ्जयकोषः ॥ (यथा, महाभारते । ३ । ४२ । १२ । “आह मामरश्रेष्ठः पिता तव शतक्रतुः ॥” बहुकर्म्मा । बहुप्रज्ञः । यथा, ऋग्वेदे । १ । १० । १ । “ब्रह्माणस्त्वा शतक्रत उद्वंशामिव येमिरे ॥” “हे शतक्रतो बहुकर्म्मन् बहुप्रज्ञ वा ।” इति तद्भाष्ये सायणः ॥)



Correction: