संस्कृत-शब्दकोशः

शतदन्तिका शतधा

शतद्रु

वाचस्पत्यम्

शतद्रु ||‍ पु० शतधा द्रवति—द्रु—कु नि० । नदीभेदे तन्नामनिरु क्तिर्यथा “शोके बुद्धिं तदा चक्रे नचैकत्र व्यतिष्ठत । सो- ऽगच्छत् पर्वतांश्चैव सरितश्च सरांसि च । दृष्ट्वा स (वसिष्ठः) पुनरेवर्षिर्नर्दी हैमवतीं तदा । चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत् । सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा । शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता । ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना । मर्त्तुं न शक्याभीत्युक्त्वा पुनरेवाश्रमं ययौ” भा० आ० १७७ अ० ।


शब्दकल्पद्रुमः

शतद्रुः || स्त्री (शतधा द्रवतीति । शत + द्रु । “शतेच” उणा० १ । ३६ । इति कुः ।)
नदीविशेषः । शतलज् इति हिन्दी भाषा । सा हिमालया- दुत्पन्ना विपाशायां मिलिता । (अस्या नाम- निरुक्तिर्यथा, महाभारते । १ । १७८ । ९ । “शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥”)
तत्पर्य्यायः । शितद्रुः २ । इत्यमरः ॥ शुतुद्रिः ३ शतद्रूः ४ । पुत्त्रशोकसन्तप्तो वशिष्ठः कण्ठे शिलां बद्ध्वानद्यामस्यां प्रविष्टस्ततो भीत्या इयं शतधा द्रुता इति शतद्रुः । इति तट्टीकायां भरतः ॥ (एतद्वृत्तान्तस्तु महाभारते । १ । १७८ । अध्याये द्रष्टव्यः ॥)
अस्या जलगुणाः । “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्व्वामयघ्नम् । जलं निर्म्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च ॥” इति राजनिर्घण्टः ॥



Correction: