संस्कृत-शब्दकोशः

शतद्रु शतधामन्

शतधा

वाचस्पत्यम्

शतधा ||‍ स्त्री शतं ग्रन्थीन् धत्ते धा—क १ दूर्वायाम् । शत + प्रकारे धाच् । २ शतप्रकारे अव्य० ।


शब्दकल्पद्रुमः

शतधा || व्य, (शत + धाच् ।)
शतप्रकारम् । यथा, “आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्त्तते । शतधा भिद्यते मूर्द्ध्नि शिरीषस्य फलं यथा ॥” इति महाभारतम् ॥


शब्दकल्पद्रुमः

शतधा || स्त्री दूर्व्वा । इति शब्दचन्द्रिका ॥



Correction: