वाचस्पत्यम्
शतधार || पु० शतं धारा अग्राणि यस्य । १ षज्रे त्रिका० । २ शतधारायुक्ते त्रि० “वसोः पवित्रमसि शतधारम्” यर्जुर्वेदः १३ । ४९ ।
शब्दकल्पद्रुमः
शतधारं || क्ली (शतं धाराः कोणा यस्य ।)
वज्रम् । इति त्रिकाण्डशेषः ॥ शतधारायुक्ते, त्रि । यथा, —
“वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् । वसोः पवित्रेण शतधारेण सुत्वा कामधुक्ष्व ॥” इति पशुपतिपद्धतिः ॥