वाचस्पत्यम्
शतपथिक || त्रि० शतपथं वेत्त्यधीते वा ठन् । शतपथब्राह्म- णात्मकग्रन्थाध्यायिनि ।
शब्दकल्पद्रुमः
शतपथिकः || त्रि (शतपथमधीते तद्वेद इति वा ।)
“शतषष्टेः षिकन् पथो बहुलम् ।” ४ । २ । ६० । इत्यस्य वार्त्तिकोक्त्या शत-शब्दोत्तरपथिन्- शब्दात् षिकन्प्रत्ययेन निष्पन्नः ।)
नानामताव- लम्बी । नानापथगामी । इति सिद्धान्तकौमुदी ॥