शतपथिक
शतपदचक्र
शतपद
वाचस्पत्यम्
शतपद || न० शतं पदानि यत्र । ज्योतिष्योक्ते नक्षत्रपादानु- सारेण नामकरणोपयोगिप्रथमवर्णसूचके १ चक्रभेदे चक्र- शब्दे २८१७ पृ० दृश्यम् । शतं पादाः यस्याः षाद्भावः समा० ङीष् पद्भावः । शतपदी २ कीटभेदे (काण्डाइ) स्त्री अमरः । ३ शतमूल्यां राजनि० ।