शतपर्वन्
शतपर्विका
शतपर्वा
शब्दकल्पद्रुमः
शतपर्व्वा || स्त्री (शतं पर्व्वाणि यस्याः ।)
दूर्व्वा । वचा । भार्गवपत्नी । (यथा, महाभारते । ५ । ११७ । १३ । “बृहस्पतिश्च तारायां शुक्रश्च शतपर्व्वया ॥”)
कोजागरपूर्णिमा । इति शब्दरत्नावली ॥ कटुका । इति राजनिर्घण्टः ॥