वाचस्पत्यम्
शतपुष्पा || स्त्री शतं पुष्पाणि यस्याः । (सुल्फा) १ शाकभेदे (मौरी) २ क्षुपभेदे च । कष् । तत्रैव । “शतपुष्पा कदुः स्निग्धा तिक्तोष्णा कफवातकृत् । रुच्या- वस्तिहिता नेत्र्या बद्धविट् कृमिशुक्रहृत् । संग्राहि- शीतला तिक्ता दाहनुत् वातला लघुः” भावप्र० । किरा- तार्जनीयग्रन्थकारके भारविकवौ पु० त्रिका० ।
शब्दकल्पद्रुमः
शतपुष्पा || स्त्री (शतं पुष्पाणि यस्याः ।)
शाक- विशेषः । इति भरतः ॥ शलुफा इति ख्याता । (यथा, बृहत्संहितायाम् । ५१ । १५ । “गन्धमांसिशतपुष्पया वदेत् ॥”)
तत्पर्य्यायः । सितच्छत्रा २ अतिच्छत्रा ३ मधुरा ४ मिसिः ५ अवाक्पुष्पी ६ कारवी ७ । इत्य- मरः ॥ शताक्षी ८ शतपुष्पिका ९ मधुरिका १० शताह्वा ११ छत्रा १२ मिशिः १३ मिशी १५ । इति शब्दरत्नावली ॥ माधवी १५ घोषा १६ । इति जटाधरः ॥ अस्या गुणाः । मधु- रत्वम् । वातपित्तहरत्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ * ॥
क्षुपविशेषः । मौरी इति भाषा । तत्पर्य्यायः । शताह्वा २ मिसिः ३ घोषा ४ पोतिका ५ अतिच्छत्रा ६ अवाक्- पुष्पी ७ माधवी ८ कारवी ९ शिफा १० संघातपत्रिका ११ छत्रा १२ वज्रपुष्पा १३ सुपुष्पिका १४ शतप्रसूना १५ वहला १६ पुष्पाह्वा १७ शतपत्रिका १८ वनपुष्पा १९ भूरिपुष्पा २० सुगन्धा २१ सूक्ष्मपत्रिका २२ मधुरिका २३ अतिच्छत्रा २४ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । स्निग्धत्वम् । श्लेष्माति- सारज्वरनेत्रव्रणनाशित्वम् । वस्तिकर्म्मणि प्रश- स्यत्वञ्च ॥ * ॥
तद्दलगुणाः । उष्णत्वम् । मधु- रत्वम् । गुल्मशूलवातनाशित्वम् । दीपनत्वम् । पथ्यत्वम् । पित्तहारित्वम् । रुचिदायकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “शताह्वानिलदाहामशूलतृट्छर्द्दिनाशिनी ।” इति द्रव्यगुणः ॥ अन्यच्च । “शतपुष्पा कटुः स्निग्धा तिक्तोष्णा कफवातकृत् । रुच्या वस्तिहिता नेत्र्या बद्धविट्कृमिशुक्रहृत् । संग्राही शीतला तिक्ता दाहनुत् वातला लघुः ॥” इति भावप्रकाशः । अन्यन्मधुरिकाशब्दे द्रष्टव्यम् ॥