संस्कृत-शब्दकोशः

शतमन्यु शतमारिन्

शतमान

वाचस्पत्यम्

शतमान ||‍ पु० न० शतेन मीयते मि—ल्युट् । १ रूप्यपले २ आ- ढके २ तत्परिमिते च अमरः ।


शब्दकल्पद्रुमः

शतमानः || पुं, क्ली, रूप्यपलम् । आढकः । इत्य- मरभरतौ ॥ (यथा, मनुः । ८ । १३७ । “धरणानि दश ज्ञेयाः शतमानस्तु राजतः । चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥” शतलोकपूज्ये, त्रि । यथा, वाजसनेयसंहिता- याम् । १९ । ९३ । “इन्द्रस्य रूपं शतमानमायु- श्चन्द्रेण ज्योतिरमृतं दधाशः ॥” “शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन् तत् जगत्पूज्यमित्यर्थः ।” इति तद्भाष्ये मही- धरः ॥)



Correction: