संस्कृत-शब्दकोशः

शतरुद्रिय शतरूपा

शतरुद्रीय

वाचस्पत्यम्

शतरुद्रीय ||‍ न० शतं रुद्रानधिकृत्य कृतो ग्रन्थः छ । १६ अ० य- जुर्वेदोक्ते “नमस्ते रुद्र! मन्यव इत्यादिके रुद्राध्याये ।


शब्दकल्पद्रुमः

शतरु(द्रि)द्रीयं || त्रि (शतं रुद्रा देवता अस्य । शतरुद्र + “शतरुद्राच्छश्च घश्च ।” ४ । २ । २८ । इत्यस्य वार्त्तिकोक्त्या घः पक्षे छश्च ।)
हविरा- दिकम् । इति सिद्धान्तकौमुदी ॥ (यथा, महा- भारते । ७ । ७९ । १३ । “गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम् ॥” यजुर्व्वेदोक्तग्रन्थविशेषे, क्ली । यथा, महा- भारते । ७ । २०० । १४६ । “पठन् वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥”)



Correction: