वाचस्पत्यम्
शतरूपा || स्त्री शत रूपाण्यस्याः । १ व्रह्मणः पत्न्यां २ तत्कन्यायां सावित्र्यां च “ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् । स्त्रारूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्री व्र- ह्माणी च परन्तप । दृष्ट्वा तां व्यथितस्तावत् कामवाणा- र्दितो विभुः । उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् । ततः कालेन महता ततः पुत्रोऽभवन्मनुः । खायम्भुव इति ख्यातः स विराडिति नः श्रुतम्” मात्स्ये ३ अ० ।
शब्दकल्पद्रुमः
शतरूपा || स्त्री (शतं रूपाणि अस्याः ।)
ब्रह्मणः कन्या पत्नी च । यथा, —
“एवन्तत्त्वात्मकं कृत्वा जगद्वेधास्त्वजीजनत् । सावित्रीं लोकसिद्ध्यर्थं हृदि कृत्वा समास्थितः ॥ ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् । स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् ॥ शतरूपा च सा ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्त्री ब्रह्माणी च परन्तप ॥ दृष्ट्वा तां व्यथितस्तावत् कामवाणार्दितो विभुः । उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥ ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः । स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् ॥” इति मात्स्ये ३ अध्यायः ॥ (विष्णुपुराणमते इयं स्वायम्भुवमनोः पत्नी । यथा, तत्रैव । १ । ७ । १४ — १६ । “ततो ब्रह्मात्मसम्भूतं पूर्व्वं स्वायम्भुवं प्रभुः । आत्मानमेव कृतवान् प्रजापाल्ये मनुं द्विज ॥ शतरूपां तु तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥ तस्माच्च पुरुषात् देवी शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ॥”)