संस्कृत-शब्दकोशः

शतसाहस्र शताक्षी

शतह्नदा

वाचस्पत्यम्

शतह्नदा ||‍ स्त्री शतं ह्रादाः शब्दायस्याः पृषो० ह्रस्वः । १ विद्युति अमरः । २ वज्रे मेदि० ३ दक्षकन्याभेदे वह्निपु०


शब्दकल्पद्रुमः

शतह्नदा || स्त्री (शतं ह्रदा अर्चिंषि यस्याः । यद्वा, शतं ह्रादाः शब्दाः यस्याः । निपातनात् ह्रस्वः ।)
विद्युत् । इत्यमरः ॥ (यथा, हरिवंशे । १४६ । ४८ । “समुद्रमेघः स रराज राजन् शतह्रदास्त्रीप्रभयाभिरामः ॥”)
वज्रम् । इति मेदिनी ॥ दक्षकन्याविशेषः । यथा, “ददौ च बाहुपुत्त्राय द्वौ तडिच्च शतह्रदा । तयोः पुत्त्राश्च विद्वांसश्चतस्रो विद्युतः शुभाः ॥” इति वह्निपुराणे सर्गानुकीर्त्तने सतीदेहत्यागो नामाध्यायः ॥



Correction: