संस्कृत-शब्दकोशः

शतानन्द शतायुस्

शतानीक

वाचस्पत्यम्

शतानीक ||‍ पु० शतमनीकानि यस्य । १ व्यासशिष्ये मुनिभेदे २ चन्द्रवंश्ये नृपभेदे मेदि० । ३ सुदासराजपुत्रे भाग० ९ १२ अ० ।


शब्दकल्पद्रुमः

शतानीकः || पुं, (शतं अनीकानि यस्य ।)
वृद्धः । मुनिभेदः । स तु व्यासशिष्यः । राजभेदः । स च चतुर्थयुगे चन्द्रवंशीयद्वितीयराजः । तस्य पिता जनमेजयः पुत्त्रः सहस्रानीकः । इति मेदिनी ॥ सुदासराजपुत्त्रः । इति श्रीभागवते ९ स्कन्धे २२ अध्यायः ॥ (नकुलपुत्त्रः । यथा, महाभारते । १ । २३४ । १० । “पुत्त्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः । श्रुतकर्म्मार्ज्जुनिश्चैव शतानीकश्च नाकुलिः ॥ सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः । सर्व्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव ॥”)



Correction: