संस्कृत-शब्दकोशः

शतावरी शतावर्त्तिन्

शतावर्त

वाचस्पत्यम्

शतावर्त्त ||‍ पु० शतमावर्त्ता यस्य । विष्णौ हेमच० । शतधा वर्त्तते णिनि । तत्रैव । शतावर्त्तिन् ।


शब्दकल्पद्रुमः

शतावर्त्तः || पुं, विष्णुः । इति हेमचन्द्रः ॥ (यथा, महाभारते । १३ । १४९ । ५० । “अनुकूलः शतावर्त्तः पद्मी पद्मनिभेक्षणः ॥” “धर्म्मत्राणाय शतमावर्त्तमानाः प्रादुर्भावा अस्येति शतावर्त्तः । नाडीशतेन प्राणरूपेण वर्त्तते इति वा शतावर्त्तः ।” इति तत्र शाङ्कर- भाष्यम् ॥ महादेवः । यथा, महाभारते । १२ । २८४ । ६ । “शतोदर शतावर्त्त शतजिह्व नमोऽस्तु ते ॥”)



Correction: