शब्दकल्पद्रुमः
शत्रुजित् || पुं, (शत्रून् जयतीति । जि + “सत्सूद्वि- षेति ।” ३ । २ । ६१ । इति क्विप् । ततस्तुक् ।) राजविशेषः । तस्य पुत्त्रः ऋतध्वजः । स एव कुवलयाश्वः । इति मार्कण्डेयपुराणम् ॥