वाचस्पत्यम्
शद्रि || पु० शद—क्रि । १ मेघे २ जिष्णौ मेदिनी० ३ गजे उणा०
शब्दकल्पद्रुमः
शद्रिः || पुं, (शीयते इति । शद + अदिशदिभूशु- भिभ्यः क्रिन् ।” उणा० ४ । ६५ । इति क्रिन् ।)
मेघः । जिष्णुः । इति मेदिनी ॥ हस्ती । इत्यु- णादिकोषः ॥
शब्दकल्पद्रुमः
शद्रिः || स्त्री (शद गतौ + “अदिशदीति क्रिन् ।)
विद्युत् । इति हेमचन्द्रः ॥ खण्डः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥