वाचस्पत्यम्
शनि || पु० शा—अनि किच्च । १ सूर्य्यपुत्रे छायागर्भजाते ग्रह- भेदे “शनिर्विहङ्गोऽनिलवन्यवन्ध्या शूद्राङ्गना धातुःसमो- स्थिरश्च । क्रुरः प्रतीचीतुवरोऽतिवृद्धोऽकरः क्षितीट् दीर्घसुनीललौहम्” । नील० ताज० । “मन्दोऽलसः कपिलकुन्तलदीर्घगात्रः स्थूलद्विजः परुषरोमक- चोनिलात्मा” वृहज्जा० । २ तत्स्वामिकदिने च “शनौ बन्ध्यां विजानीयात्” ज्यो० त० ।
शब्दकल्पद्रुमः
शनिः || पुं, रव्यादिनवग्रहान्तर्गतसप्तमग्रहः । तत्प- र्य्यायः । सौरिः २ शनैश्चरः ३ । इत्यमरः ॥ नीलवासाः ४ मन्दः ५ छायात्मजः ६ । इति त्रिकाण्डशेषः ॥ पातङ्गिः ७ ग्रहनायकः ८ छायासुतः ९ भास्करिः १० नीलाम्बरः ११ । इति शब्दरत्नावली ॥ आरः १२ क्रोडः १३ वक्रः १४ कोलः १५ सप्तांशुः १६ पङ्गुः १७ । इति जटाधरः ॥ कालः १८ सूर्य्यपुत्त्रः १९ असितः २० । इति ज्योतिस्तत्त्वम् ॥ अस्य वर्णः कृष्णः । पश्चिमदिङ्नपुंसकान्त्यजजातितमो- गुणकषायरसमकरकुम्भराशिनीलकान्तमणिसौ- राष्ट्रदेशानामधिपतिरयम् । कश्यपमुनिसन्तानः । शूद्रवर्णः । सूर्य्यमुखः । चतुरङ्गुलपरिमाणः । कृष्णवर्णवस्त्रः । गृध्रवाहनः । सूर्य्यपुत्त्रः । चतु- र्भुजः । भल्लवाणवरशूलधनुर्धारी । अस्याधि- देवता यमः । प्रत्यधिदेवता प्रजापतिः । इति ग्रहयागतत्त्वबृहज्जातकादयः ॥ अपि च । “शनिर्विहङ्गोऽनिलवन्यवन्ध्या शूद्राङ्गना धातुसमः स्थिरश्च । क्रूरः प्रतीची तुवरोऽतिवृद्धो- ऽकरक्षितीट् दीर्घसुनीललौहम् ॥” इति नीलकण्ठीयजातकम् ॥ * ॥
अस्योत्पत्तिर्यथा, —
“मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः । तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः ॥ नातितेजोमयं रूपं सोढुं सालं विवस्वतः । मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः ॥ संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः । अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे । भवने वस कल्याणि निर्व्विशङ्कं ममाज्ञया ॥ इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरा- लयम् । मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः ॥ सावर्णिं जनयामास मनुश्रेष्ठं महीपते । शनैश्चरं द्बितीयञ्च सुतं भद्रां तृतीयिकाम् ॥” इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥ तस्य क्रूरदृष्टेः कारणं यथा, —
“एतस्मिन्नन्तरे तत्र द्रष्टुं शङ्करनन्दनम् । आजगाम महायोगी सूर्य्यपुत्त्रः शनैश्चरः ॥ अत्यन्तानम्रवदन ईषन्मीलितलोचनः । द्वारिणं शूलहस्तञ्च विशालाक्षमुवाच ह ॥ शनैश्चर उवाच । शिवाज्ञया शिशुं द्रष्टुं यामि शङ्करकिङ्कर । विष्णुप्रमुखदेवानां मुनीनामनुरोधतः ॥ विशालाक्ष उवाच । आज्ञावहो न देवानां नाहं शङ्करकिङ्करः । द्वारं दातुमशक्तोऽहं विना मन्मातुराज्ञया ॥ ददौ वर्त्म ग्रहेशाय चक्षुःकोणाज्ञया ततः । शनिरभ्यन्तरं गत्वा ननामानम्रकन्धरः ॥ रत्नसिंहासनस्थाञ्च पार्व्वतीं सस्मितां मुदा । नतं सूर्य्यसुतं दृष्ट्वा दुर्गा संभाष्य यत्नतः । शुभाशिषं ददौ तस्मै पृष्ट्वा तत्कुशलं शुभा ॥ पार्व्वत्युवाच । कथमानम्रवक्त्रस्त्वं श्रोतुमिच्छामि साम्प्रतम् । कथं न पश्यसि मां साधो बालकञ्च ग्रहेश्वर ॥ शनिरुवाच । सर्व्वे स्वकर्म्मणः साध्वि भुञ्जते वाञ्छितं फलम् । शुभाशुभं वा यत् कर्म्म कोटिकल्पैर्न लुप्यते ॥ इतिहासं चातिगोप्यं शृणु शङ्करवल्लभे । अकथ्यं जननीसाक्षाल्लज्जाजनककारणम् ॥ आबालात् कृष्णभक्तोऽहं कृष्णध्यानैकमानसः । तपस्यासु रतः शश्वद्बिषये विरतः सदा ॥ पिता ददौ विवाहेन कन्यां चित्ररथस्य च । अतितेजस्विनी शश्वत्तपस्यानुरता सती ॥ एकदा सा ऋतुस्नाता सुवेशं स्वं विधाय च । रत्नालङ्कारसंयुक्ता मुनिमानसमोहिनी ॥ हरिपादं ध्यायमानं सा मां पश्येत्युवाच ह । मत्समीपं समागत्य सस्मिताननलोचना । शशाप मामपश्यन्तमृतुनष्टा स्वकोपतः । बाह्यज्ञानविहीनञ्च ध्यानैकतानमानसम् ॥ न दृष्टाहं त्वया येन न कृतं ऋतुरक्षणम् । त्वया दृष्टन्तु यद्यत्तु मूढ सर्व्वं विनश्यति ॥ अहञ्च विरते ध्याने तामतोषं पुरा सतीम् । शापं मोक्तुं न शक्ता सा पश्चात्तापं चकार ह ॥ तेन मातर्न पश्यामि किञ्चिद्वस्तु स्वचक्षुषा । ततः प्रभृति नम्रास्यः प्राणिहिंसाभयादहम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ११ अध्यायः ॥ * ॥
अस्य भोगकालो यथा, —
“रविर्मासं निशानाथः सपाददिवसद्वयम् । पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादश वासरान् ॥ वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः । शनिः सार्द्धद्बयं वर्षं स्वर्भानुः सार्द्धवत्सरम् ॥” इति ज्योतिस्तत्त्वम् ॥ तस्य जपमन्त्रो यथा, —
“प्रणवं वाग्भवं मायां श्रीमुद्धृत्य शनैश्चरम् । चतुर्थ्यन्तं मनुं प्रोक्तं रविसूनोर्नवाक्षरम् ॥” ॐ ऐं ह्रीँ श्रीँ शनैश्चराय । इति रुद्रयामलम् ॥ ऊर्द्ध्वपाणिस्तन्मन्त्रं जपेत् । यथा, —
“सूर्य्यारराहुमन्दानामूर्द्धपाणौ जपेद्वुधः । सोमकेत्वोरधः पाण्योरन्येषां शुद्धपाणिकः ॥” इति च रुद्रयामलम् ॥ तस्य होममन्त्रो यथा । ॐ शन्नो देवीरभीष्टये शन्नो भवन्तु पीतये शंयोरभिस्रवन्तु नः । यथा शनैश्चरायेति पुनः शन्नो देवीति होमयेत् । इत्युद्वाहतत्त्वधृतमत्स्यपुराणम् ॥ * ॥
वारविशेषः । तत्र वारवेला यथा, —
“कृतमुनियमशरमङ्गल- रामर्त्तुभास्करादियामार्द्धे । प्रभवति हि वारवेला न शुभाशुभकार्य्यकरणाय ॥” * ॥
तत्र कालवेला यथा, —
“कालस्य वेला रवितः शराक्षि- कालानलागाम्बुधयो गजेन्दू । दिने निशायामृतुवैदनेत्र- नगेषु रामा विधुदन्तिनौ च ॥” तत्र कुलिकवेला यथा, —
“षष्ठाष्टैकं दिनेशात् क्रमश इह दिने मन्त्रि- चण्डेश्वरोक्तः पूर्व्वे वारार्द्धयामः कुलिक इह परो मध्यमश्चेति कालः ।” तद्दिने पूर्व्वदिग्गमननिषेधो यथा, —
“शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां मन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ न व्रजेत् ॥” * ॥
तत्र पथमरजोयोगे दोषो यथा, —
“आदित्ये विधवा नारी सोमे चैव पतिव्रता । वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥ बृहस्पतौ पतिः श्रीमान् शुक्रे चापत्यमेव च । शनौ बन्ध्यां विजानीयात् प्रथमे स्त्री रजस्वला ॥” इति ज्योतिस्तत्त्वम् ॥ अथ नवानां ग्रहाणां दानानि । “सूर्य्ये धेनुञ्च ताम्रञ्च गोधूमं रक्तचन्दनम् । चन्द्रे चन्दनशङ्खौ च वस्त्रञ्च तिलतण्डुलान् ॥ कुजे वृषः प्रदातव्यो रक्तवस्त्रं गुडौदनम् । बुधे कर्पूरमुद्गञ्च हरिद्वस्त्रं हिरण्यकम् ॥ पीतवस्त्रद्वयं जीवे हरिद्राकनकानि च । अश्वः शुक्रे सितो देयः शुक्लधान्यानि यानि च ॥ शनौ च सतिला देया कृष्णा गौर्लौहमुत्तमम् । राहौ च महिषीच्छागौ माषाश्च तिलसर्षपाः ॥ अजामेषौ च दातव्यौ केतौ चान्नञ्च मिंश्रितम् । स्वर्णगोविप्रपूजाभिः सर्व्वेषां शान्तिरुत्तमा ॥” इति ज्योतिस्तत्त्वम् ॥ ग्रहाणां वलयो यथा, —
“गुडौदनं पायसञ्च हविष्यं क्षीरषष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ दद्यात् ग्रहक्रमाच्चेदं द्बिजेभ्यो भोजनं बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्व्वकम् ॥” ग्रहाणां दक्षिणा यथा, —
“धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा । कृष्णा गौरायसं छागएता वै दक्षिणाः क्रमात् ॥” इति संस्कारतत्त्वम् ॥