संस्कृत-शब्दकोशः

शनिप्रिय शनैश्चर

शनिवार

वाचस्पत्यम्

शनिवार ||‍ पु० शनिस्वामिकोवारः । सूर्य्यादिवारमध्ये सप्तमेवारे ।


शब्दकल्पद्रुमः

शनिवारः || पुं, (शनिभोग्यः शनेर्वा वारः ।)
शनि- भोग्यसावनदिनम् । तत्तु उदयादोदयकालः । यथा, —
“सूतकादिपरिच्छेदो दिनमासाब्दपास्तधा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥” दिनाधिपस्य रव्यादेर्भ्योग्यं दिनं वाररूपं सावनगणनोक्तम् । “उदयादोदयाद्भानोर्भौमसावनवासराः ॥” इति तिथ्यादितत्त्वम् ॥ शतभिषानक्षत्रयुक्तमधुकृष्णत्रयोदश्यां शनिवार- योगे महावारुणी स्यात् । यथा । स्कन्दपुराणे । “वारुणेन समातुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा । शनिवारसमायुक्ता सा महावारुणी स्मृता ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
तत्र जातफलं यथा, —
“कृशः सुवेशः कुलकीर्त्तिहीनो ज्वरायुतो मध्यधनोऽङ्गहीनः । तमोगुणः क्लेशकरो नराणां मन्दस्य वारप्रभवोऽतिमन्दः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
तत्र यात्रानिषेधो यथा, —
“संत्यजेद्दिवसे यात्रां सूर्य्यारार्कीन्दुवक्रिणाम् ।” इति ज्योतिस्तत्त्वम् ॥ वारवेलादि शनिशब्दे द्रष्टव्यम् ॥



Correction: