संस्कृत-शब्दकोशः

शनिवार शनैस्

शनैश्चर

वाचस्पत्यम्

शनैश्चर ||‍ पु० शनैश्चरति चर—अच् । शनिग्रहे तस्य ग्रहाणां मध्ये सर्वोपरिकक्षस्थितत्वात् बहुफालेनैकैकराशिभोगात् भृदुगतित्वम् ।


शब्दकल्पद्रुमः

शनैश्चरः || पुं, (शनैर्मन्दं मन्दं चरतीति । चर- गतौ + पदाद्यच् ।)
शनिः । इत्यमरः ॥ अस्य स्तोत्रं यथा, —
“नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् । छायाया गर्भसम्भूतं वन्दे भक्त्या शनैश्चरम् ॥ व्यासेनोक्तमिदं स्तोत्रं यः पठेत् प्रयतो नरः । दिवा वा यदि वा रात्रौ शान्तिस्तस्य न सं- शयः ॥” इति व्यासभाषितस्तोत्रम् ॥



Correction: