वाचस्पत्यम्
शनैस् || अव्य० शण—डैसि पृषो० नुक् च । मन्दे २ अशैघ्य्रे च अमरः ।
शब्दकल्पद्रुमः
शनैः || [स्] व्य, अद्रुतम् । इत्यमरः । यथा, —
“शनैर्व्विद्या शनैः कन्था शनैः पर्व्वतमारुहेत् । शनैः कामश्च धर्म्मश्च पञ्चैतानि शनैः शनैः ॥” इति गारुडे १०९ अध्यायः ॥ शनैश्चरः । इति मेदिनी ॥