संस्कृत-शब्दकोशः

शप्त शफर

शफ

वाचस्पत्यम्

शफ ||‍ न० शम—अच् पृषो० पस्य फः । १ गवादीनां खुरे २ वृक्षमूले च मेदि० ।


शब्दकल्पद्रुमः

शफं || क्ली गवादीनां खुरः । (यथा, याज्ञवल्क्यः । १ । २०४ । “हेमशृङ्गा शफैरौप्यैः सुशीला वस्त्रसंयुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥”)
वृक्षमूलम् । इति मेदिनी ॥



Correction: