वाचस्पत्यम्
शब्दन || त्रि० शब्द—ल्यु । शब्दकारके अमरः ।
शब्दकल्पद्रुमः
शब्दनः || त्रि (शब्दं कर्त्तुं शीलमस्य । शब्द + “चलनशब्दार्थादकर्म्मकाद्युच् ।” ३ । २ । १४९ । इति तच्छीले युच् ।)
शब्दकर्त्ता । तत्पर्य्यायः । रवणः २ । इत्यमरः ॥ (शब्द + भावे ल्युट् ।)
शब्दमात्रे, क्ली ॥