वाचस्पत्यम्
शब्दभेदिन् || पु० शब्दानुसारेण भिनत्ति लक्ष्यम् भिद—णिनि । १ वाणभेदे २ अर्जुने त्रिका० ।
शब्दकल्पद्रुमः
शब्दभेदी || [न्] पुं, (शब्दमनुसृत्य भेत्तुं शीलमस्य । भिद् + णिनिः ।)
अर्ज्जुनः । इति त्रिकाण्डशेषः ॥ पायुः । इति केचित् ॥ वाणविशेषः । इति रामायणम् ॥