संस्कृत-शब्दकोशः

शब्दब्रह्मन् शब्दवेधिन्

शब्दभेदिन्

वाचस्पत्यम्

शब्दभेदिन् ||‍ पु० शब्दानुसारेण भिनत्ति लक्ष्यम् भिद—णिनि । १ वाणभेदे २ अर्जुने त्रिका० ।


शब्दकल्पद्रुमः

शब्दभेदी || [न्] पुं, (शब्दमनुसृत्य भेत्तुं शीलमस्य । भिद् + णिनिः ।)
अर्ज्जुनः । इति त्रिकाण्डशेषः ॥ पायुः । इति केचित् ॥ वाणविशेषः । इति रामायणम् ॥



Correction: