वाचस्पत्यम्
शब्दवेधिन् || पु० शब्दानुसारेण विधति लक्ष्यं विध—णिनि । १ वाणभेदे २ अर्जुने च धंनञ्जयः ।
शब्दकल्पद्रुमः
शब्दवेधी || [न्] पुं, (शब्दमनुसृत्य वेद्धुं शील- मस्य । विध + णिनिः ।)
अर्ज्जुनः । इति धन- ञ्जयः ॥ दशरथराजः । यथा, —
“लब्धशब्देन कौशल्ये कुमारेण धनुष्मता । कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥” इति वाल्मीकीये रामायणे ६३ अध्यायः ॥ शब्दवेधी इत्येवं लब्धकीर्त्तिनेति यावत् । इति तट्टीका ॥