शब्दकल्पद्रुमः
शमकः || त्रि (शामयतीति । शम + णिच् + ण्वुल् । “नोदात्तोपदेशेति ।” ७ । ३ । ३४ । इति न दीर्घः ।) शान्तिकारकः । ञ्यन्तशमधातो- र्णकप्रत्ययेन निष्पन्नमेतत् ॥