वाचस्पत्यम्
शमन || पु० शमयति शम—णिच्—ल्यु । लोकार्ना पुण्यापुण्य- फलदातृत्वेन दण्डकारके १ यमे अमरः । शम—णिच्- भावे ल्युट् । २ शान्तीकरणे न० । ३ यज्ञार्थपशुधाते अमरः ४ चर्वणे धरणिः ५ हिंसायां हेमच० ६ मृगभेदे शब्दच० ।
शब्दकल्पद्रुमः
शमनं || क्ली (शम + ल्युट् ।)
यज्ञार्थपशुहननम् । इत्यमरः ॥ शान्तिः । इति मेदिनी ॥ (यथा, पाणिनौ । ५ । १ । ३८ । “वातस्य शमनं कोपनं वा ।” इति काशिका ॥)
चर्व्वणम् । इति धरणिः ॥ हिंसा । इति हेमचन्द्रः ॥ (प्रतिसंहारः । यथा, मार्कर्कण्डेये । ७८ । १३ । “निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः । प्रसीद स्वेच्छया रूपं स्वतेजःशमनं कुरु ॥” निवारकः । यथा, तत्रैव देवीमाहात्म्ये । “दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥”)
शब्दकल्पद्रुमः
शमनः || पुं, (शमयति पापिनां कर्म्म आलोचय- तीति । कर्त्तरि ल्युः ।)
यमः । इत्यमरः ॥ मृग- भेदः । इति शब्दचन्द्रिका ॥ कलायः । इति राजनिर्घण्टः ॥