शमनस्वसृ
शमनीषद
शमनी
शब्दकल्पद्रुमः
शमनी || स्त्री (शमयति नृणां व्यापारान् । शम + ल्युः । स्त्रियां ङीप् ।)
रात्रिः । इति शमनी- षदशब्ददर्शनात् ॥ (शाम्यते अनेन इत्यर्थे करणे ल्युटि शान्तिकारके, त्रि । यथा, भाग- वते । ३ । २४ । ३९ । “मात्रे चाध्यात्मिकीं विद्यां शमनीं सर्व्वकर्म्म- णाम् ॥”)