वाचस्पत्यम्
शम्ब || गतौ भ्वा० पर० सक० सेट् । शम्बति अशम्बीत् ।
वाचस्पत्यम्
शम्ब || पु० शम्ब—अच् । १ वज्रे २ मूसलाग्रस्थितलौहे मेदि० । २ लौहकाञ्च्यां हेलच० । ४ अनुलोमकर्षणे भरतः । ५ दरिद्रे च संक्षिप्तसा० ६ भाग्यबति त्रि० रामाश्रमः ।
शब्दकल्पद्रुमः
शम्ब || गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
शम्बति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शम्बः || पुं, (शम् + “शमेर्व्वन् ।” उणा० ४ । ९४ । इति वन् । यद्वा, शमस्त्यस्येति । शं + “कंशंभ्यां वभयुस्तितुतयसः ।” ५ । ६ । १३८ । इति वः ।)
वज्रम् । (यथा, ऋग्वेदे । १० । ४२ । ७ । “उग्रो यः शम्बः पुरुहूत तेन ।” “शम्ब इति वज्रनाम ।” इति तद्भाष्ये सायणः ॥)
मुषलाग्रस्थलोहमण्डलकम् । इति मेदिनी ॥ लौहकाञ्ची । इति हेमचन्द्रः ॥ अनुलोमकर्ष- णम् । इति शम्बाकृतशब्दटीकायां भरतः ॥ दरिद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥ भाग्य- वति, त्रि । इति रामाश्रमः ॥