संस्कृत-शब्दकोशः

शम्ब शम्बरकन्द

शम्बर

वाचस्पत्यम्

शम्बर ||‍ न० शम्ब—अरन् । १ जले २ धने ३ व्रते रत्नमा० । ४ चित्रे च ५ बौद्धव्रतभेदे हेमच० । ६ मृगभेदे ७ दैत्यभेदे पु० मेदि० ८ मत्स्यभेदे ९ पर्वतभेदे १० जिनभेदे पु० विश्वः । ११ युद्धे पु० १२ श्रेष्ठे त्रि० धरणिः १३ चित्रकवृक्षे १४ लोध्रे १५ अर्जुनवृक्षे च पु० राजनि० ।


शब्दकल्पद्रुमः

शम्बरं || क्ली सलिलम् । व्रतम् । वित्तम् । इति नानार्थरत्नमाला ॥ चित्रम् । बौद्धव्रतविशेषः । इति विश्वहेमचन्द्रौ ॥ (मेघः । यथा, ऋग्वेदे । २ । २४ । २ । “अदर्द्दर्मन्युना शम्बराणि ॥” “शम्बराणि मेघनामैतत् मेघान् व्यदर्द्दः वर्ष- णार्थं विदारितवान् ॥” इति तद्भाष्ये सायणः ॥)


शब्दकल्पद्रुमः

शम्बरः || पुं, मृगविशेषः । दैत्यविशेषः । इति मेदिनी ॥ (यथा, ऋग्वेदे । १ । ५१ । ६ । “अरन्धयो तिथिग्वाय शम्बरम् ।” “शम्बरं एतन्नामानमसुरम् ।” इति तद्भाष्ये सायणः ॥ यथा च महाभारते । १ । ६५ । २२ । “शम्बरो नसुचिश्चैव पुलोमा चेति विश्रुतः । असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥”)
मत्स्यविशेषः । शैवविशेषः । जिनभेदः । इति विश्वः ॥ युद्धम् । श्रेष्ठः । इति धरणिः ॥ चित्रकवृक्षः । लोध्रः । अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥ शम्बरासुरस्य वधोपाख्यानं श्रीभागवते १० स्कन्धे ५५ अध्याये द्रष्टव्यम् ॥



Correction: