वाचस्पत्यम्
शम्बरसूदन || पु० शम्बरमसुरं सूदयति हिनस्ति चु० सूद- ल्यु । कामदेवे हला० तद्वननकथा हरिवं० १६३ । १६४ अ० दृश्या ।
शब्दकल्पद्रुमः
शम्बरसूदनः || पुं, (शम्बरं सूदयतीति । सूद + ल्युः ।) कामदेवः । इति हलायुधः ॥