शब्दकल्पद्रुमः
शम्बुकः || पुं, (शम्बु + स्वार्थे कन् ।) सृम्बुकः । यथा, “शम्बूकः शम्बुको ज्ञेयः पूर्ब्बः कान्तस्तु सर्व्वदा । ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥” इति हड्डचन्द्रः । इत्यमरटीकायां भरतः ॥