वाचस्पत्यम्
शयथ || पु० शो—अथच् । १ अजगरसर्पे २ मृत्यौ ३ निद्राशीले त्रि० हेमच० । ४ वराहे ५ मत्स्ये च पुंस्त्री० संक्षिप्तसारः ।
शब्दकल्पद्रुमः
शयथः || पुं, (शेते इति । शीङ् + “शीङ्शपिरुशमि- जीविप्राणिभ्योऽथः ।” उणा० ३ । ११३ । इति अथः ।)
अजगरः । मृत्युः । निद्रालुः । इति हेमचन्द्रः ॥ वराहः । मत्स्यः । इति संक्षिप्त- सारोणादिवृत्तिः ॥ (मरणम् । यथा, ऋग्वेदे । ६ । १७ । ९ । “विश्वायुः शयथे जघान ॥” “शयथे शयननिमित्ते मरणायेत्यर्थः ।” इति तद्भाष्ये सायणः ॥)