वाचस्पत्यम्
शयन || न० शी—ल्युट् । १ निद्रायां २ शय्यायाम् अमरः ३ मै- थुने च मेदि० । देवभेदे शयनकालभेदादि वामनपु० १६ अ० उक्तं यथा “मिथुना भगते सूर्ये शुक्लपक्षे तपोधन! । एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् । शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् । कृत्वोपवीतकञ्चैव सम्यक् संपू च द्विजान् । अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः । लब्ध्वा पीताम्बरधरं स्वस्ति निद्रां समानयेत् । त्रयीदश्यां ततः कामः स्वपते शयने शुभे । कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते । चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले । सुवर्णपङ्कजकृते सुखास्तीर्णोप- धानके । पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे । वैयाघ्रे च जटाभारं सभुद्ग्रथ्यान्यचर्मणा । ततो दिवाकरे राशिं संप्रयाति च कर्कटम् । ततोऽमराणां रजनी भवते दक्षिणायनम् । ब्रह्मा प्रतिपदि तथा नीलोत्पलदलेऽनघ! । तल्पे स्वपिति देवानां दर्शयन् मार्गमुत्तमम् । विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता । विनायकश्चतुर्थान्तु पञ्चम्यामपि धर्मराट् । षष्ठ्यां स्कन्दश्च स्वपिति सप्तम्यां भगवान् रविः । कात्या- यनी तथाष्टम्यां नवम्यां कमलालया । दशम्यां भुजगे- न्द्राश्च स्वपन्ति वायुभोजनाः । एकादश्यान्तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति हि । एष क्रमस्ते सदितो नि- शायां शयने मुने! । स्वपत्सु तेषु देवेषु प्रावृट्कालः समाययौ” । अथ लोकानां शयनप्रकारादि प्रदर्श्यते “उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च । भृत्यैः परिवृतो भुक्त्वा नानितृप्तोऽथ संविशेत् । शुचिं देशं विविक्तन्तु गोमयेन तु लेपयेत् । प्रागुदक्प्रवणं चैव संखपेत सदा बुधः । प्राक्शिराश्च स्वपेन्नित्यं तथा वै दक्षिणाशिराः । स्वपेदुदक्शिरा नैव तथा प्रत्यक्शिरा न च । न चान्तर्द्धानहीने तु न तिर्य्यक च कदाचन । शून्यालये श्मशाने तु एकवृक्षे चतुष्पथे । महादेवगृहे चापि मातृवेश्मनि न स्वपेत् । न यक्ष नागायतने स्कन्दस्यायतने तथा । दर्भेषु च विना दीक्षां न स्वपेच्च कथञ्चन । धान्यगेहे च विप्राणां गुरूणाञ्च तथोपरि । नाशुचौ पर्णकीर्णे तु नाशुचिर्नाशिख- स्तथा । दिने सन्धौ न नग्नञ्च नोत्तरापरमस्तकः । नाकाशे पर्वते शून्ये न च चैत्यद्रुमे तथा । न तु द्वारे- ऽम्भसाकीर्णे नार्द्रपादस्त्वधावितः । पालाशे शयने नैव बहुदारुकृते न च । न दग्धे विद्युता चैव वह्निप्लुष्टे जले तथा । न स्वपेत् सन्ध्ययोर्नित्यं न शिवस्यासने कटे । एवं स्वपन् नरो नित्यं सुखस्येह परत्र भाक् । व्यत्यये च भवेद्दुःखी मृतो नरकमश्नुते” वह्निपु० । सति सूर्य्ये शय्या न पातनीया सूर्य्योदयात् पूर्वमुत्तोलनीयेत्याह स्मृतिः “भास्करादृष्टशय्यानि नित्याग्निसलिलानि च । सूर्य्यावलोकिदीपानि लक्ष्म्या वेश्मानि भाजनम् । आसनं वसनं शय्या जायापत्यं कमण्डलुः । आत्मनः शुचि- रेतानि न परेषां कदाचन” । न कदाचन इत्यनुमतिं विना अन्यथाऽऽतिथ्यानुपपत्तेः रघु० । व्यासः “शुचौ देशे विविक्ते तु गोमयेनोपलिप्तके । प्रागुदक्प्रवणे चैव संविशेत्तु सदा बुधः । माङ्गल्यं पूर्णकुम्भञ्च शिरस्थाने निधापयेत् । वैदिकैर्गारुडैर्मन्त्रैरक्षां कृत्वा स्वपेत्ततः” । गर्गः “स्वगृहे प्राक्शिराः शेते आयुष्ये दक्षिणाशिराः । प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः” मार्कण्डेयपु० “प्राक्शिरःशयने विद्यात् धनमायुश्च दक्षिणे । प- श्चिमे प्रबलां चिन्तां हानिं मृथ्रं तथोत्तरे” तथा “नम- स्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन्निशि” मार्कण्डेयपु० “शृन्यागारे श्मशाने च एकवृक्षे चतुष्कये । महादेव- गृहे चापि शर्करालोष्ट्रपांशुषु । धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि । न चापि भग्नशयने नाशुचौ ना- शुचिः स्वयम् ।” नार्द्रवासा न नग्नश्च नोत्तरापरम- स्तकः । नाकाशे सर्वशून्ये च न च चैत्यद्रुमे तथा” । न स्वपेदित्यर्थः आ० त० । “भुक्त्वा च विधिवन्- मन्त्रैर्द्विजो भुक्त्वाऽबशिष्टकम् । ससुहृद्बान्धवजनः स्वपेत् शुष्कपदो निशि । नोत्तराभिमुखः स्वप्यात् पश्चिमाभि- मुखो न च । न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् । न शीर्णायान्तु खद्वायां शून्यागारे न चैव हि । नापि वंश्ये च पालाशे शयने वा कदाचन” कौर्मपु० १८ अ० “कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही । गच्छेत् शय्यां सयन्त्राञ्च अथवा दारु- निर्मिताम् । शाल्मलस्य कदम्बस्य नीपमन्दारकस्य च । किंशुकस्य वटस्याथ तथा कुशमयस्य च । आरो- हणात् भवेत् पापं तस्मात्तेषु न च स्वपत् । प्ररोह शय्यां सूत्रेवा अर्पणे परमेश्वरि! । न शुक्रे नापवित्रे च न तृणे न च भूतले । तूलिकायां तग्रा वस्त्रे शय्या- भावे स्वपेद् गृही । स्वपेन्न पट्टवस्त्रे च कलङ्की कम्ब- लेषु च” मत्स्यपु० ४४ प० । “श्वासानष्टौ ससुत्तानस्तान् द्वि१६ पार्श्वे च दक्षिणे । ततस्तद्द्विगुणान्३२ वामे पश्चात् स्वप्यात् यथासुखम् । वामदिशायामनलो नाभे रूर्द्ध्वोऽस्ति जन्तूनाम् । तस्मात्तु वामपार्श्वे शयीत भुक्त प्रपाकार्थम्” भावप्र० ।
शब्दकल्पद्रुमः
शयनं || क्ली (शी + ल्युट् ।)
निद्रा । शय्या । इत्यमरः ॥ (यथा, महाभारते । १ । १४५ । १४ । “आसनानि च दिव्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत वै पिता ॥”)
मैथुनम् । इति मेदिनी ॥ अथ सर्व्वदेवशयन- कालः । पुलस्त्य उवाच । “यदाषाढी समायाति व्रजते चोत्तरायणम् । तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥ प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्व्वगुह्यकाः । देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥ नारद उवाच । कथयस्व सुरादीनां शयने विधिमुत्तमम् । सर्व्वञ्चानुक्रमेणैव पुरस्कृत्य जनार्द्दनम् ॥ पुलस्त्य उवाच । मिथुनाभिगते सूर्य्ये शुक्लपक्षे तपोधन । एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् ॥ शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् । कृत्वोपवीतकञ्चैव सम्यक् संपूज्य च द्बिजान् ॥ अनुज्ञां ब्राह्मणेभ्यश्च द्बादश्यां प्रयतः शुचिः । लब्ध्वा पीताम्बरधरं स्वस्तिनिद्रां समानयेत् ॥ त्रयोदश्यां ततः कामः स्वपते शयने शुभे । कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥ चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले । सुवर्णपङ्कजकृते सुखास्तीर्णोपधानके ॥ पौर्णमास्यामुमानाथः स्वपते चर्म्मसंस्तरे । वैयाघ्रे च जटाभारं समुद्ग्रथ्यान्यचर्म्मणा ॥ ततो दिवाकरो राशिं संप्रयाति च कर्कटम् । ततोऽमराणां रजनी भवते दक्षिणायनम् ॥ ब्रह्मा प्रतिपदि तथा नीलोत्पलदलेऽनघ । तल्पे स्वपिति देवानां दर्शयन् मार्गमुत्तमम् ॥ विश्वकर्म्मा द्वितीयायां तृतीयायां गिरेः सुता । विनायकश्चतुर्थ्यान्तु पञ्चम्यामपि धर्म्मराट् ॥ षष्ठ्यां स्कन्दश्च स्वपिति सप्तम्यां भगवान् रविः । कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥ दशम्यां भुजगेन्द्राश्च स्वपन्ति वायुभोजनाः । एकादश्यान्तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति हि ॥ एष क्रमस्ते गदितो निशायां शयने मुने । स्वपत्सु तेषु देवेषु प्रावृट्कालः समाययौ ॥ कङ्काः समं वलाकाभिरारोहन्ति नगोत्तमान् । वायसाश्चापि कुर्व्वन्ति नीडानि मुनिपुङ्गव । वायस्यश्च स्वपन्त्येता ऋतौ गर्भभरालसाः ॥ यस्यां तिथ्यां प्रस्वपिति विश्वकर्म्मा प्रजापतिः । द्वितीया सा शुभा पुण्या सुपुण्या शयनोदिता ॥ तस्यां तिथावर्च्च्य हरिं श्रीवत्साङ्कं चतुर्भुजम् । पर्य्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने ॥ ततो देवाय शय्यायां फलानि प्रक्षिपेत् क्रमात् । सुरभीणि निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥ यथा हि लक्ष्म्या न वियुज्यसे त्वं त्रिविक्रमानन्त जगन्निवास । तथास्त्वशून्यं शयनं सदैव त्वस्माकमेवेह तव प्रसादात् ॥ तदा त्वशून्यं तव देव तल्पं स्वयं हि लक्ष्म्या शयने सुरेश । सत्येन तेनामितवीर्य्य विष्णो गार्हस्थ्यरागो मम चास्तु देव ॥ इत्युच्चार्य्य प्रणम्येशं प्रसाद्य च पुनः पुनः । नक्तं भुञ्जीत देवर्षे तैलक्षारविवर्जितम् ॥ द्वितीयेऽह्नि द्बिजाग्र्याय फलं दद्याद्बिचक्षणः । लक्ष्मीधर प्रीयतां मे इत्युच्चार्य्य निवेदयेत् ॥ अनेन तु विधानेन चातुर्मास्यव्रतं चरेत् । यावद्वृश्चिकराशिस्थः प्रतिभाति दिवाकरः । ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने ॥ नभस्ये मासि च तथा या स्यात् कृष्णाष्टमी शुभा । युक्ता मृगशिरेणैव सा तु कामाष्टमी स्मृता ॥ तस्यां सर्व्वेषु लिङ्गेषु तिथौ स्वपिति शङ्करः । वसते सन्निधाने तु तत्र पूजाक्षया स्मृता ॥” इति वामने १६ अध्यायः ॥ * ॥
अथ हरिशयनादिव्यवस्था । भविष्यनारदी- ययोः । “मैत्राद्यपादे स्वपितीह विष्णु- र्व्वैष्णव्यमध्ये परिवर्त्तते च । पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन ॥” मैत्रमनुराधा । वैष्णवं श्रवणा । पौष्णं रेवती । भविष्ये । “निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् । अन्यत्र पादयोगे तु द्बादश्यामेव कारयेत् ॥” इत्थञ्च नक्षत्रयोगप्राप्तौ फलातिशयः । एत- द्विधानं वामनपुराणे । “एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् । शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् ॥ अनुज्ञां ब्राह्मणेभ्यश्च द्बादश्यां प्रयतः शुचिः । लब्धा पीताम्बरधरं देवं निद्रां समानयेत् ॥” अनुज्ञां लब्ध्वा इत्यन्वयः । एकादशीसमये दिवा- शयनीयकल्पनं रात्रौ द्वादशीक्षणे निद्रेति । विष्णुधर्म्मोत्तरे । “स्वास्तीर्णशयनं कृत्वा प्रीणयेद्भोगशायिनम् । आषाडशुक्लद्बादश्यां विष्णुलोके महीयते ॥” स्वास्तीर्णशयनं शोभनास्तरणयुक्तं खट्टादि । वराहपुराणे श्रीभगवानुवाच । “अन्यत्तु संप्रवक्ष्यामि कर्म्म संसारमोचनम् । कदम्बकुटजश्चैव धवकोऽर्ज्जुनकस्तथा ॥ एभिरभ्यर्च्चनं कुर्य्याद्विधिदृष्टेन कर्म्मणा । ततः संस्थापनं कृत्वा मम मन्त्रविधिः स्मृतः । नमो नारायणायोक्त्वा इमं मन्त्रमुदीरयेत् ॥ पश्यन्तु मेघानपि मेघश्यामं ह्युपागतं सिच्यमानं महीमिमाम् । निद्रां भगवान् गृह्णातु लोकनाथ वर्षास्विमं पश्यतु मेघवृन्दम् ॥ ज्ञात्वैव पश्यैव च लोकनाथ मासा- श्चत्वारि वैकुण्ठस्य च पश्य नाथ । आषाढशुक्लद्वादश्यां सर्व्वशान्तिकरम् शिवम् ॥ य एतेन विधानेन भूमि ! मे कर्म्म कारयेत् । स पुमान् न प्रणश्येत्तु संसारेषु युगे युगे ॥ शयने कुटजविधानात् विष्णुधर्म्मोत्तरीयनिषे- धोऽन्यत्र । धवकः कपित्थः । संस्थापनं समा- पनम् । भूमि इति पृथिव्याः सम्बोधनम् । “एवमुक्तेन मन्त्रेण कृष्णं सुष्वापयेत्ततः । सुप्ते त्वयि जगन्नाथ जगत् सुप्तं भवेदिदम् । विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥” इति मन्त्रेण पूजयेत् ॥ * ॥
“प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि । कटदानं भवेद्विष्णोर्महापूजा प्रवर्त्तते ॥” कटदानं पार्श्वपरिवर्त्तः । कामरूपीयनिबन्धे । “एवं संपूज्य विधिवत् भाद्रस्य द्बादशीदिने । मन्त्रेणानेन देवेशं पार्श्वेन परिवर्त्तयेत् ॥ वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव । पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ॥ त्वयि सुप्ते जगन्नाथ जगत् सर्व्वं चराचरम् ॥” ब्रह्मपुराणे । “एकादश्यान्तु शुक्लायां कार्त्तिके मासि केशवम् । प्रसुप्तं बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः ॥” रात्रौ प्रसुप्तमित्यन्वयः । बोधनन्तु दिवैव ॥ “कृत्वा वै मम कर्म्माणि द्वादश्यां मत्परो नरः । ममैव बोधनार्थाय इमं मन्त्रमुदीरयेत् ॥ महेन्द्ररुद्रैरभिनूयमानो भवानृषिर्व्वन्दितवन्दनीयः । प्राप्ता तवेयं किल कौमुदाख्या जागृष्व जागृष्व च लोकनाथ ॥ मेघा गता निर्म्मलपूर्णचन्द्रः शारद्यपुष्पाणि च लोकनाथ । अहं ददानीति च पुण्यहेतो- र्जागृष्व जागृष्व च लोकनाथ ॥ एवं कर्म्माणि कुर्व्वीरन् द्बादश्यां ये यशस्विनि । मम भक्ता नरश्रेष्ठास्ते यान्ति परमां गतिम् ॥” अत्र मन्त्रद्बयपाठानन्तरम् । “उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते । त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम् ॥” इति सम्प्रदायागतस्तृतीयः श्लोक इति वाच- स्पतिमिश्राः ॥ शयनोत्थानमन्त्रास्तु कल्पतरु- प्रभृतिग्रन्थसंवादाल्लिखिताः । तदेवं द्बादश्यां एकादश्यां वा रेवत्यन्तपादयोगवशाद्दिवोत्थानं नक्षत्रयोगाभावे तु द्बादश्यामेव कारयेदिति गुरुचरणाः । जीमूतवाहनस्तु भविष्ये । “आ-भा-का-सितपक्षेषु मैत्रश्रवणरेवती । आदिमध्यावसानेषु प्रस्वापावर्त्तबोधनम् ॥” आ-भा-का-सितपक्षेषु आषाढभाद्रकार्त्तिक- शुक्लपक्षेषु । एषाञ्च द्वादश्यां प्राप्तौ मुख्य- कल्पः । भविष्यपुराणम् । “निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् । अन्यत्र पादयोगे तु द्वादश्यामेव कारयेत् ॥” विष्णुधर्म्मोत्तरे । “विष्णुर्दिवा न स्वपिति न रात्रौ प्रतिबुध्यते । द्वादश्यामृक्षसंयोगे पादयोगो न कारणम् ॥ अप्राप्ते द्बादशीमृक्षे उत्थानशयने हरेः । पादयोगेन कर्त्तव्येनाहोरात्रं विचिन्तयेत् ॥” वचनान्तरम् । “रेवत्यन्तो यदा रात्रौ द्बादश्या च समन्वित तदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम् ॥ दिनान्ते त्रिधा विभक्तदिनतृतीयभागे दिवोत्थान- मित्यनुरोधात् । अतएव । “रात्रौ विबोधो विनिहन्ति पौरान् स्वापो दिवा राष्ट्रकुलं नृभर्त्तुः । सन्ध्याद्बये स्वल्पफला धरित्री भवेन्नराणामपि रोगदुःखम् ॥” इति श्रुतिः ॥ वराहपुराणे । “द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे । आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम् ॥” तदेवं शयनादौ कालचतुष्टयम् । द्वादश्यां निशादौ नक्षत्रयोगः । तदभावेऽपि निशाद्य- नादरेण तिथ्यन्तरे पादयोगः । तस्याप्यभावे- ऽपि सन्ध्यायां नक्षत्रमात्रयोगः । तस्याप्यभावे द्वादश्यां सन्ध्यायामिति । विष्णुधर्म्मोत्तरे । “किं तन्मैत्राद्यपादेन दशम्यंशेन यो दिवा । पौष्णशेषेण किं तेन प्रतिपद्यध यो निशि ॥” इति दशमीप्रतिपदोर्निषेधात् एकादश्यादिपौर्ण- मास्यन्तानां तिथीनामभ्यनुज्ञानम् ॥ * ॥
पद्मपुराणे सर्व्वदेवशयनादिकमुक्तं यथा, —
“प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः । श्रिया देव्या द्वितीया तु तिथीनामुत्तमा स्मृता ॥ तृतीया तु भवान्याश्च चतुर्थी तत्सुतस्य च । पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च ॥ सप्तमी भास्करस्योक्ता दुर्गायाश्चाष्टमी स्मृता । मातॄणां नवमी प्रोक्ता दशमी वासुकेस्तथा ॥ एकादशी ऋषीणान्तु द्बादशी चक्रपाणिनः ।” चक्रपाणिन इति पणव्यवहार इत्यस्मात् । “त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्द्दशी । मम चैव मुनिश्रेष्ठ पौर्णमासी तिथिः स्मृता ॥ यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या । तस्य देवस्य तस्मिंश्च शयनावर्त्तनादिकम् ॥” अत्र हरिशयनाद्याषाढादिविधानात् तत्साह- चर्य्यादन्येषामपि तथा । ज्योतिषेऽपि । “व्रजति यदा मिथुनं विहाय कर्कं राजविवर्ज्जितां तिथिं सूर्य्यः । भवति तदा नियतं द्बिराषाढः सुरशयनादिविधिर्द्वितीये मासि ॥” राज्ञा चन्द्रेण विवर्ज्जितां अमावास्याम् । पूर्व्व- कृष्णपक्षे मिथुने संक्रान्ते इति शेषः । हरि- नाथोपाध्यायास्तु । यमः । “क्षीराब्धौ शेषपर्य्यङ्के आषाढ्यां संविशेद्धरिः । निद्रां त्यजति कार्त्तिक्यां तयोस्तं पूजयेत् सदा ॥ ब्रह्महत्यासमं पापं क्षिप्रमेव व्यपोहति । हिंस्रात्मकैश्च किं तस्य यज्ञैः कार्य्यं महात्मनः । प्रस्वापे च प्रबोधे च पूजितो येन केशवः ॥” आषाढशुक्लैकादशीमारभ्य पौर्णमासीपर्य्यन्तं विष्णोर्निद्राग्रहणरूपशयनसमयः । अतएव एकादश्यां शयनमभिधाय तदादिदिनपञ्चके कर्म्मकथनं ब्रह्मपुराणे । वराहपुराणीये तु । एकादशीकालीनमन्त्रे निद्राग्रहणाभिधानम् । यमस्मृतौ पौर्णमास्यां शयनाभिधानम् । आषाढीपदस्यानुपाधेस्तत्रैव प्रवृत्तेः । एवञ्च ब्रह्मपुराणे यद्यप्येकादश्यां प्रबोधसमयः । तेन वराहपुराणे द्वादश्यां प्रबोधाभिधानम् । यम- स्मृतौ कार्त्तिक्यां प्रबोधाभिधानम् सर्व्वसमञ्जस- मिति । एवमेव श्रीदत्तोपाध्यायाः । कल्पतरुस्तु एकादश्यामेव शयनं प्रबोधश्च । यमस्मृतावा- षाढी कार्त्तिकस्येयमिति वुत्पत्त्या न तत्प्रत्य- यानुपपत्तिः । अपवादविषयके क्वचिदुत्सर्ग- प्रवृत्तेरित्याह । श्रीभगवद्वाक्यम् । “मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने । फलमूलजलाहारी हृदि शल्यं ममार्पयेत् ॥” फलाहारपदमनशनपरम् । तेन सर्व्वथा अन- शनपरत्वम् । इत्येकादशीतत्त्वम् ॥ * ॥
मर्त्त्यानां शयनविधिनिषेधौ यथा, — सूत उवाच । “उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च । भृत्यैः परिवृतो भुक्त्वा नातितृप्तोऽथ संविशेत् ॥ शुचिं देशं विविक्तन्तु गोमयेन तु लेपयेत् । प्रागुदक्प्रवणे चैव संस्वपेत सदा बुधः ॥ प्राक्शिराश्च स्वपेन्नित्यं तथा वै दक्षिणाशिराः । स्वपेदुदक्शिरा नैव तथा प्रत्यक्शिरा न च । न चान्तर्द्धानहीने तु न तिर्य्यक् च कदाचन ॥ शून्यालये श्मशाने तु एकवृक्षे चतुष्पथे । महादेवगृहे चापि मातृवेश्मनि न स्वपेत् ॥ न यक्षनागायतने स्कन्दस्यायतने तथा । गर्भेषु च विना दीक्षां न स्वपेच्च कथञ्चन ॥ धान्यगेहे च विप्राणां गुरूणाञ्च तथोपरि । नाशुचौ पर्णकीर्णे तु नाशुचिर्नाशिखस्तथा ॥ दिने सन्धौ न नग्नश्च नोत्तरापरमस्तकः । आकाशे पर्व्वते शून्ये न च चैत्यद्रुमे तथा ॥ न तु द्वारेऽम्भसाकीर्णे नार्द्रपादस्त्वधावितः । पालाशे शयने नैव बहुदारकृते न च ॥ न दग्धे विद्युता चैव वह्निप्लुष्टे जले तथा । न स्वपेत् सन्ध्ययोर्नित्यं न शिरस्यासने कटे ॥ एवं खपन् नरो नित्यं सुखस्येह परत्रभाक् । व्यत्यये च भवेद्दुःखी मृतो नरकमश्नुते ॥” इति वह्निपुराणे आह्निकतपोनामाध्यायः ॥ * ॥
अपि च । सति सूर्य्ये शय्या च न पातनीया सूर्य्योदयात् पूर्व्वमुत्तोलनीया । तथा च स्मृतिः । “भास्करादृष्टशय्यानि नित्याग्निसलिलानि च । सूर्य्यावलोककिदीपानि लक्ष्म्या वेश्मानि भाज- नम् ॥ आसनं वसनं शय्या जायापत्यं कमण्डलुः । आत्मनः शुचिरेतानि न परेषां कदाचन ॥” न कदाचन इत्यनुमतिं विना अन्यथातिथ्यानु- पपत्तेः । व्यासः । “शुचौ देशे विविक्ते तु गोमयेनोपलिप्तके । प्रागुदक्प्लवने चैव संविशेत्तु सदा बुधः ॥ माङ्गल्यं पूर्णकुम्भञ्च शिरःस्थाने निधापयेत् । वैदिकैर्गारुडैर्म्मन्त्रै रक्षां कृत्वा स्वपेत्ततः ॥” गर्गः । “स्वगृहे प्राक्शिराः शेते आयुष्ये दक्षिणा- शिराः । प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः ॥” मार्कण्डेयपुराणे । “प्राक्शिराः शयने विद्यात् धनमायुश्च दक्षिणे । पश्चिमे प्रबलां चिन्तां हानिं मृत्युं तथोत्तरे ॥” तथा । “नमस्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन्निशि ।” मार्कण्डेयः । “शून्यागारे श्मशाने च एकवृक्षे चतुष्पथे । महादेवगृहे चापि शर्करालोष्ट्रपांशुषु ॥ धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि । न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम् ॥ नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः । नाकाशे सर्व्वशून्ये च न च चैत्यद्रुमे तथा ॥” न स्वपेदित्यर्थः । इत्याह्निकाचारतत्त्वम् ॥ * ॥
अन्यच्च । “भुक्त्वा च विधिवन्मन्त्रैर्द्विजो भुक्तावशिष्टकम् । ससुहृद्बान्धवजनः स्वपेत् शुष्कपदो निशि ॥ नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च । न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ न शीर्णायान्तु खट्वायां शून्यागारे न चैव हि । नापि वंश्ये च पालाशे शयने वा कदाचन ॥” इति कौर्म्मे उपविभागे १८ अध्यायः ॥ * ॥
अपि च । “कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही । गच्छेत् शय्यां समन्त्राञ्च अथवा दारुनिर्म्मिताम् ॥ शाल्मलस्य कदम्बस्य नीपमन्दारकस्य च । किंशुकस्य वटस्याथ तथा कुशमयस्य च ॥ आरोहणात भवेत् पापं तस्मात्तेषु न च स्वपेत् । प्ररोहशय्यां सूत्रे वा अपर्णे परमेश्वरि ! ॥ न शुक्रे नापवित्रे च न तृणे न च भूतले । तूलिकायां तथा वस्त्रे शय्याभावे स्वपेद्गृही । स्वपेन्न पट्टवस्त्रे च कलङ्की कम्बलेषु च ॥” इति मत्स्यसूक्ते ४४ पटलः ॥ * ॥
अपि च । “सूर्य्येणाभ्युदितो यस्तु त्यक्तः सूर्य्येण यः स्वपन् । अन्यत्रातुरभावाच्च प्रायश्चित्तीयते नरः ॥” इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥ यस्मिन् सुप्ते सूर्य्य उदेति स सूर्य्येणाभ्युदितः । यस्मिन् सुप्ते अस्तं याति स सूर्य्येण त्यक्तः ॥ सूर्य्योदयास्तसमययोः स्वपन् प्रायश्चित्तीयते पातकी भवेदित्यर्थः । इति तस्य टीका च ॥ किञ्च । “श्वासानष्टौ समुत्तानस्तान् द्वि १६ पार्श्वे च दक्षिणे । ततस्तद्द्विगुणान् ३२ वामे पश्चात् स्वप्यात् यथासुखम् ॥ वामदिशायामनलो नाभेरूर्द्ध्वोऽस्ति जन्तू- नाम । तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् ॥” इति भावप्रकाशः ॥