शब्दकल्पद्रुमः
शयनीयकं || क्ली (शयनीयमेव । स्वार्थे कन् ।) शय्या । इति शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ३३ । १७७ । “गत्वा कलिङ्गसेनायाः सुप्तायाः शयनीयके । सुप्तं मदनवेगं तं स्वरूपे स्थितमैक्षत ॥”)