वाचस्पत्यम्
शयालु || त्रि० शी—आलुच् । निद्राशीले अमरः । २ अजगरे, ३ कुक्कुरे च पु० हारा० ।
शब्दकल्पद्रुमः
शयालुः || त्रि (शयनशीलः । शी + “शोङो ग्रहणं कर्त्तव्यम् ।” ३ । २ । १५८ । इत्यस्य वार्त्तिकोक्त्या आलुच् ।)
निद्रालुः । इत्यमरः ॥ (यथा, माघे । २ । ८० । “उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः । हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥”)
शब्दकल्पद्रुमः
शयालुः || पुं, (शी + आलुच् ।)
अजगरः । कुकरः । इति हारावली ॥