संस्कृत-शब्दकोशः

शयानक शयित

शयालु

वाचस्पत्यम्

शयालु ||‍ त्रि० शी—आलुच् । निद्राशीले अमरः । २ अजगरे, ३ कुक्कुरे च पु० हारा० ।


शब्दकल्पद्रुमः

शयालुः || त्रि (शयनशीलः । शी + “शोङो ग्रहणं कर्त्तव्यम् ।” ३ । २ । १५८ । इत्यस्य वार्त्तिकोक्त्या आलुच् ।)
निद्रालुः । इत्यमरः ॥ (यथा, माघे । २ । ८० । “उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः । हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥”)


शब्दकल्पद्रुमः

शयालुः || पुं, (शी + आलुच् ।)
अजगरः । कुकरः । इति हारावली ॥



Correction: