संस्कृत-शब्दकोशः

शयालु शयितवान्

शयित

वाचस्पत्यम्

शयित ||‍ त्रि० शो—कर्त्तरि क्त । १ निद्रिते । भावे—क्त । नि द्रायां न० ।


शब्दकल्पद्रुमः

शयितः || त्रि (शी + क्तः ।)
निद्रालुः । इत्यमरः ॥ (कृतशयनः । यथा, कथासरित्सागरे । ५६ । १८७ । “तयोः स्नपितयोः स्वामि भुञ्जे भोजितयो- स्तयोः । शये शयितयोस्तेन ज्ञानमीदृग्विधं मम ॥”)
वसन्तकुसुमे, पुं । यथा, —
“वसन्तकुसुमः शेलुः शयितो द्विजकुत्सितः ॥” इति शब्दमाला ॥ शयने, क्ली ॥



Correction: