शरकाण्ड
शरजन्मन्
शरज
वाचस्पत्यम्
शरज || न० शरात् दधिदुग्धपारात् जायते जन—ड । १ हैयङ्ग- वीने हेमच० शरवणे जाते २ कार्त्तिकेये पु० । अग्नि कुमारशब्दे ५४ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
शरजं || क्ली (शरात् जायते यत् तत् । जन् + डः ।)
हैयङ्गवीनम् । इति हेमचन्द्रः ॥ नवनीतम् । इति केचित् ॥