वाचस्पत्यम्
शरजन्मन् || पु० शरवणे जन्म यस्य । कार्त्तिकेये अमरः ।
शब्दकल्पद्रुमः
शरजन्मा || [न्] पुं, (शरे शरवणे जन्म यस्य ।)
कार्त्तिकेयः । इत्यमरः ॥ (यथा, रघुः । ३ । २३ । “उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ । तथा नृपः साच सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥”)