संस्कृत-शब्दकोशः

शरणार्पक शरणी

शरणि

वाचस्पत्यम्

श(स)रणि(णी) ||‍ स्त्री शॄ(सृ)—अनि वा ङीप् । १ पथि, पङ्क्टौ मेदि० २ प्रसारर्ण्यां शब्दर० । ३ जयन्त्याञ्च स्त्री शब्दर० । ४ पृथ्व्याम् अजयः ।


शब्दकल्पद्रुमः

शरणिः || स्त्री पन्थाः । इत्यमरः ॥ सरन्त्यनयेति सरणिः नाम्नीति अनिः इदन्तात् पक्षे ईपि सरणी च । “सरणिः श्रोणिवर्त्मनोरिति दन्त्यादौ रभसः ।” शॄ स्वॄ गि हिंसने इत्यस्मात् पूर्व्ववदनौ शरणि- स्तालव्यादिश्च । शुभं शुभे प्रदीप्ते च शरणिः पथि चावनाविति तालव्यादावजयः । इति तट्टीकायां भरतः ॥ पृथ्वी । इत्यजयः ॥ (हिंसा । यथा, ऋग्वेदे । १ । ३१ । १६ । “इमामग्ने शरणिं मीमृषो नः ।” “हे अग्ने नो ऽस्मत्सम्बन्धिनीं इमामिदानीं सम्पादितां शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमस्व * * * शरणिं शॄ हिंसायामित्यस्मादौ- णादिकः अनिः प्रत्ययः ।” इति तद्भाष्येसायणः ॥)



Correction: